शिवमहिम्नःस्तोत्रम् – मूल पाठ एवं अन्वय

ss

महिम्नःपारन्ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्व: स्वमतिपरिणामावधि गृणंन्
ममाप्येषस्तोत्रे हर ! निरपवादः परिकरः ।। १ ।।

अन्वय :
हर ! यदि ते महिम्नः परं पारं अविदुषः स्तुतिः असदृशी, तद् ब्रह्मदिनाम् अपि गिरः त्वयि अवसन्नाः। अथ स्वमति परिणामावधिः गृणन् सर्वः अवाच्यः, (अतः) मम एपीआई स्तोत्रे एष परिकरः निरपवादः।

अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ।। २।।

अन्वय :
तव महिमा च वाङ्गमनसयोः पन्थानं अतीतः । यं श्रुतिः अपि अतद्-व्यावृत्त्या चकितं अभिधत्ते, स कस्य स्तोतव्यः ? कतविधगुणः ? कस्य विषयः ? (तथापि) अर्वाचीने पदे कस्य मनः कस्य वचः (च) न पतति ।

मधुस्फीता वाचः परमममृतं निर्मितवतस्तव
ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थे अस्मिन् पुरमथन बुद्धिर्व्यवसिता ।।३।।

अन्वय :
हे ब्रहमन् ! परमं अमृतं मधुस्फीताः वाचः निर्मितवतः तव सुरगुरोः अपि वाक् किं विस्मयपदम् ? हे पुरमथन ! मम तु एतां वाणीं भवतः गुणकथनपुण्येन पुनामी इति अर्थे अस्मिन् बुद्धिः व्यवसिता ।

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तुव्यासं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन्वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ।। ४।।

अन्वय :
हे वरद ! जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु गुणभिन्नासु तिसृषु तनुषु व्यस्तं यद् इह तव ऐश्वर्यं तद् विहन्तुं एके जडधियः अस्मिन् अभव्यानां रमणियां अरमणिम् व्याक्रोशीं विदधते ।

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनम्
किमाधारो धाता सृजति किमुपादन इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोsयं कांश्चिन्मुखरयति मोहाय जगतः।। ५।।

अन्वय :
स धाता किमीहः किंकायः किमुपायः किमाधारः किमुपादनः च त्रिभुवनं सृजति ईटी अयं कुतर्कः अतर्क्यैश्वर्ये त्वयि अनवसरदुःस्थः खलु जगतः मोहाय कांश्चित् हतधियः मुखरयति ।

अजन्मानोलोकाः किमवयववन्तोsपि जगतामधिष्ठातारं
किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ।।६।।

अन्वय :

अमरवर ! इमे लोकाः अवयववन्तः अपि किं अजन्मानः ? किं भवविधिः जगतां अधिष्ठातारं अनादृत्य भवति ? अनीशः वा कुर्यात् (तर्हि ) भुवनजनने कः परिकरः ? यत् मन्दाः (अतः ) त्वां प्रति संशेरते ।

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।। ७।।

अन्वय :

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवं इति प्रभिन्ने प्रस्थान इदं परं अदः पथ्यं इति रुचीनां वैचित्र्याद् ऋजुकुटिलनानापथजुषां नृणां पयसां अर्णवः इव त्वं एकः गम्यः असि ।

महोक्षः खट्वांगं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद् भ्रूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति।। ८।।

अन्वय :

वरद ! महोक्षः खट्वाङ्गं परशुः अजिनं भस्म फणिनः कपालं च इति इयत् तव तन्त्रोपकरणम् सुराः तु तां ताम् ऋद्धिं भवद् भ्रूप्रणिहितां दधाति । हि विषयमृगतृष्णा स्वात्मारामं न भ्रामयति ।

ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेsप्येतस्मिन्पुरमथन तैर्विस्मित इव
स्तुवन्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ।।९।।

अन्वय :

पुरमथन ! कश्चिद् इदं सर्वं ध्रुवं गदति अपरः सकलं अध्रुवं तु परः जगति व्यस्तविषये ध्रौव्याध्रौव्ये । एतस्मिन् समस्ते तैः विस्मित इव अपि त्वां स्तुवन् न जिह्रेमि । ननु मुखरता खलु धृष्टा ।

तवैश्वर्यं यत्नाद्युपरि विरञ्चरहरिरधः
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरीश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।।१०।।

अन्वय :

गिरीश ! अनलस्कन्धवपुषः तव यद् ऐश्वर्यं परिच्छेत्तुं विरंचिः उपरि हरिः अधः यत्नाद् यातौ अनलं , ततः भक्तिश्रद्धाभरगुरुगृणद्भ्याम् तस्थे । तव अनुवृत्तिः किम् न फलति ?

अयत्नादापाद्य-त्रिभुवनमवैर-व्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् ।
शिरः पद्मश्रेणिरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।।११।।

अन्वय :

त्रिपुरहर ! शिरःपद्मश्रेणिरचितचरणाम्भोरुबलेः स्थिरायाः त्वद्भक्तेः इदं विस्फूर्जितं यद् दशास्यः त्रिभवनं अयत्नाद् अवैरव्यतिकरं आपाद्यरणकण्डूपरवशान् बाहून् अभृत ।

अमुष्य त्वत्सेवासमाधिगतसारं भुजवनं
बलात्कैलासेsपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पातालेsप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ।।१२।।

अन्वय :

त्वत्सेवामधिगतसारं भुजवनं त्वदधिवसतौ कैलासे अपि बलात् विक्रमयतः अमुष्य त्वयि अलसचलितांगुष्ठशिरसि पाताले अपि प्रतिष्ठा अलभ्या आसीत् । उपचिताः खलः ध्रुवं मुह्यति ।

यदृद्धिं सुत्राम्णो वरद ! परमोच्चैरपि सतीमधश्चक्रे
बाणः परिजनविधेयस्त्रिभुवनम् ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोर्न
कस्यायुन्नत्यै भवति शिरस्त्वय्यवनतिः ।।१३।।

अन्वय :

हे वरद ! त्रिभुवनं परिजनविधेयः बाणः सुत्राम्णः परमोच्चैः सतीम् अपि ऋद्धिं यद् अधः चक्रे तत् त्वच्चरणयोः वरिवसितरि तस्मिन् न चित्रम् । त्वयि शिरसः अवनतिः कस्यै उन्नत्यै न भवति ?

अकाण्डब्रह्मांडक्षयचकितदेवासुरकृपा-
विधेयस्याssसीद्यस्त्रिनयन विषं संहृतवतः ।
स कल्माष कण्ठे तव न कुरुते न श्रियमहो
विकारोsपिश्लाघ्यो भुवनभयभंगव्यसनिनः ।।१४।।

अन्वय :

त्रिनयन ! अकाण्डब्रह्मांडचकितदेवासुरकृपाविधेयस्य विषं संहृतवतः तव कण्ठे कल्माषः आसीद् । स किं श्रियं न कुरुते ? अहो ! भुवनभयभंगव्यसनिनः विकारः आपि श्लाघ्यः ।

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः ।।१५।।

अन्वय :

ईश ! जयिनः यस्य विशिखाः सदेवासुरनरे जगति क्वचिदपि नित्यं असिद्धार्थाः न एव निवर्तन्ते, त्वां इतरसुरसाधारणं पश्यन् स एव स्मरः स्मर्तव्यात्मा अभूत । हि वशिषु परिभवः पथ्यः न (भवति) ।

मही पादाघाताद्व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ।।१६।।

अन्वय :

ननु त्वं जगद्रक्षायै नटसि (तथापि) मही पादाघातात् सहसा संशयपदं व्रजति, विष्णोः पदं भ्राम्यद् भुजपरिघरुग्णग्रहगणं (व्रजति), अनिभृतजटाताडिततटा द्यौ मुहुः दौस्थ्यं याति । विभुता वामा एव ।

वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद् द्वीपाकारं जलधिवलयं तेनकृतमित्य-
नेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः।।१७।।

अन्वय ;

वियद् व्यापी तारागणगुणितफेनोद्गमरुचिः वारां यः प्रवाहः ते शिरसि पृषतलघुदृष्टः तेन जगद् जलधिवलयं द्वीपाकारं कृतं इति अनेन एव दिव्यं वपुः धृतमहिम (इति) उन्नेयम् ।

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथांगे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोsइन त्रिपुरतृणमाडम्बर-
विधिर्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ।।१८।।

अन्वय :

क्षोणी रथः शतधृतिः यन्ता, अगेन्द्रो धनुः, चन्द्रार्कौ रथांगे अथः रथचरणपाणिः शरह इति त्रिपुरतृणं दिधक्षोः ते अयं आडम्बरविधिः कः ? खलु विधेयैः क्रीडन्त्यः प्रभुधियः परतन्त्राः न ।

हरिस्ते साहस्रं कमलबलिमाधाय पदयोर्य-
देकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ।।१९।।

अन्वय :

हे त्रिपुरहर ! हरिः ते पादयोः साहस्रं कमलबलिं आधाय तस्मिन् एकोने निजं नेत्रकमलं यद् उदहरत् असौ भक्त्युद्रेकः चक्रवपुषा परिणतिं गतः त्रयाणां जगतां रक्षायै जागर्ति ।

क्रतौ सुप्ते जागृत्तमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवम्
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ।।२०।।

अन्वय :

क्रतुमतां क्रतौ सुप्ते फलयोगे त्वं जाग्रत् असि । प्रध्वस्तं कर्म पुरुषाराधनं ऋते कव फलति ? अतः त्वां क्रतुषु फलदानप्रतिभुवं सम्प्रेक्ष्य जनः श्रुतौ श्रद्धां बद्ध्वा कर्मसु दृढपरिकरः (भवति) ।

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ।।२१ ।।

अनवय :

हे शरणद ! क्रियादक्षः तनुभृत्ताम् अधीशः दक्षः क्रतुपतिः ऋषीणाम् आर्त्विज्यम् सुरगणाः सदस्याः क्रतुफलविधानव्यसनिनः त्वत्त क्रतुभ्रंशः (जातः) । ध्रुवं हि कर्तुः श्राद्धविधुरं मखाः अभिचाराय ।

प्रजानाथं नाथ प्रसभमिकं स्वां दुहितरं
यतं रोहितभूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुम्
त्रसन्तं तेsद्यापि त्यजति न मृगव्याधरभसः ।। २२।।

अन्वय :

हे नाथ ! स्वां दुहितरं रोहिद्भूतां ऋष्यस्य वपुषा गतं प्रसभं रिरमयिषुम् अभिकं प्रजानाथं ते अपि धनुष्पाणेः मैगव्याधरभसः सपत्राकृतं दिवं यातं त्रसन्तं अमुं अद्य अपि न त्यजति ।

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरतदेहार्धघटना-
दवैति त्वामबद्धा बत वरद मुग्धा युवतयः ।। २३।।

अन्वय :

हे पुरमथन ! हे यमनिरत ! स्वलावण्याशंसाधृतधनुषं पुष्पायुधं पुरः तृणवत् अह्नाय प्लुष्टं दृष्ट्वा अपि देवी देहार्धघटनाद् यदि त्वां स्त्रैणं अवैति हे वरद ! अद्धा । बत युवतयः मुग्धाः ।

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराश्चिता-
भस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमंगल्यम् शीलं तव भवतु नामैवाखिलम्
तथापि स्मर्तृणां वरद परमं मंगलमसि ।।२४।।

अन्वय :

हे स्मरहर ! श्मशानेषु आक्रीडा, पिशाचाः सहचराः, चिताभस्म आलेपः, अपि नृकरोटीपरिकरः स्रक् । एवं तव अखिलं शीलं अमंगल्यम् नाम भवतु तथापि हे वरद ! स्मर्तृणां परमं मंगलं असि ।

मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्संगीतदृशः।
यदालोक्याह्लादं हृद इव निमज्ज्यामृतमये ।।२५।।

अन्वय :

यमिनः सविधं आत्तमरुतः मनः प्रत्यक्चित्ते अवधाय यत् किं अपि तत्त्वं आलोक्य प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः अमृतमये हृदे निमज्ज्य इव अंतः आह्लादं दधति तत् कील भवान् ।

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ।।२६।।

अन्वय :

त्वं अर्कः, त्वं सोमः, त्वं पवनः, त्वं हुतवहः, त्वं आपः, त्वं व्योमः, त्वं धरणिः, च त्वं उ आत्मा असि इति एवं त्वयि परिच्छिन्नां गिरं परिणताः बिभ्रतु तु वयं इह तत् तत्त्वं न विद्मः यत् त्वं न भवसि ।

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमितिपदम् ।।२७।।

अन्वय :

हे शरणद ! त्रयीं, तिस्रो वृत्तीः, त्रिभुवनं अथो त्रीन् सुरान् अपि अकाराद्यैः त्रिभिः वर्णैः अभिदधत्, (तथा च) तीर्णविकृति तुरीयं ते धाम अणुभिः ध्वनिभिः अवरुन्धानं ओम् इति पदं त्वां समस्तं व्यस्तं गृणाति ।

भवः शर्वो रुद्रः पशुपतिरयोग्रः सह महां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन्प्रत्येकं प्रविचरति देवः श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहितनमस्योsस्मि भवते ।।२८।।

अन्वय :

हे देव ! भवः शर्वो रुद्रः पशुपतिः उग्रः सहमहान् तथा भीमेशानौ इति इदं याद अभिधानाष्टकं अमुष्मिन् प्रत्येकं श्रुतिः अपि प्रविचरति अथ अस्मै प्रियाय धाम्ने भवते प्रणिहितनमस्यः अस्मि ।

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ।।२९।।

अन्वय :

हे प्रियदव ! नेदिष्ठाय दविष्ठाय च (ते) नमो नमः । हे स्मरहर ! क्षोदिष्ठाय महिष्ठाय च (ते) नमो नमः । हे त्रिनयन ! वर्षिष्ठाय यविष्ठाय च (ते) नमो नमः ।

बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबलतमसे तत्संहारे हराय नमो नमः ।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ।।३०।।

अन्वय :

विश्वोत्पत्तौ बहुलरजसे भवाय नमो नमः । तत्संहारे प्रबलतमसे हराय नमो नमः । जनसुखकृते सत्वोद्रिक्तौ मृडाय नमो नमः । प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ।

कृशपरिणतिचेतः क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धिः ।
इति चकितमन्दीकृत्य मां भक्तिराधा-
द्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ।। ३१।।

अन्वय :

हे वरद ! कृशपरिणति क्लेशवश्यं इदं चेतः च क्व गुणसीमोल्लंघिनी शश्वत् तव ऋद्धिः क्व इति चकितं माम् अमन्दीकृत्य भक्तिः ते चरणयोः वाक्यपुष्पोपहारम् आध्ात् ।

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरु-वर-शाखा लेखनी पत्रमुर्वीम् ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ।।३२।।

अन्वय :

हे ईश ! यदि सिन्धुपात्रे असितगिरिसं कज्जलं सुरतरुवरशाखा लेखनी उर्वी (च) पत्रं स्यात् (तथा) शारदा गृहीत्वा सर्वकालं लिखति तद् अपि तव गुणानां पारं न याति ।

असुर-सुर-मुनीन्द्रिरचितस्येन्दुमौलेर्ग्रथित-
गुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तैः स्तोत्रमेचकार ।।३३।।

अन्वय :

असुरसुरमुनीन्द्रैः अर्चितस्य इन्दुमौलेः ग्रथितगुणमहिम्नः निर्गुणस्य ईश्वरस्य एतद् रुचिरं स्तोत्रं पुष्पदन्ताभिधानः सकलगणवरिष्ठः अलघुवृत्तैः चकार ।

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्त पुमान्यः ।
स भवति शिवजोके रुद्रतुल्यस्तथाsत्र
प्रचुरतरधनायुः पुत्रवान्कीर्तिमान्श्च ।।३४।।

अन्वय :

महेशान्नापरो देवो महिम्नो नापारा स्तुतिः
अघोरान्नापरो मंत्रो नास्ति तत्त्वं गुरोः परम् ।।३५।।
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः
महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ।।३६।।

अन्वय :

महेशाद अपरः देवः न (अस्ति), महिम्नः अपरा स्तुतिः न (अस्ति), अघोराद् अपरः मन्त्रः न (अस्ति), गुरोः परं तत्त्वं न अस्ति ।

अन्वय :

दीक्षा दानं तपः तीर्थं ज्ञानं यज्ञादिकाः क्रियाः महिम्नस्तवपाठस्य षोडशीं कलां न अर्हन्ति ।

कुसुमादशननामा सर्वगन्धर्वराजः
शशिधरवरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्यारोषात्=
स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ।।३७।।

अन्वय :

शशिधरवरमौलेः देवदेवस्य दासः कुसुमदशननामा सर्वगन्धर्वराजः अस्य रोषात् खलु निजमहिम्नः भ्रष्टः स एव महिम्नः इदं दिव्यदिव्यं स्तवनं अकार्षीत्।

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्रांजलिर्नान्यचेताः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदंतप्रणीतम् ।। ३८।।

अन्वय :

पुष्पदंतप्रणीतं अमोघं सुरवरमुनिपूज्यम् स्वर्गमोक्षैकहेतुं इदं स्तवनं यदि मनुष्यः प्रांजलिः नान्यचेताः पठति किन्नरैः स्तूयमानः शिवसमीपं व्रजति ।

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितं ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ।।३९ ।।
इत्येषा वाङ्गमयी पूजा श्रीमच्छंकरपादयोः ।
अर्पिता तेन देवेशः प्रीयतां में सदाशिवः ।।४०।।

अन्वय :

आसमाप्तम् इदं गन्धर्वभाषितं अनौपम्यं पुण्यं शिवमीश्वरवर्णनम् स्तोत्रं मनोहारि इति मे एषा वाङ्गमयी पूजा श्रीमच्छंकरपादयोः अर्पिता तेन देवेशः सदाशिवः प्रीयतां ।

तव तत्त्वं न जानामि कीदृशोsसि महेश्वर ।
यादृशोsसि महादेव तादृशाय नमो नमः ।। ४१ ।।
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ।। ४२ ।।

अन्वय :

महेश्वर तव तत्त्वं न जानामि कीदृशोsसि महादेव यादृशोsसि तादृशाय नमो नमः । यः नरः एककालं द्विकालं वा त्रिकालं पठेत् (सः ) सर्वपापविनिर्मुक्तः शिवलोके महीयते ।

श्रीपुष्पदन्त-मुखपंकज-निर्गतेन
स्तोत्रेण किल्विषहरेण हरिप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ।। ४३।।

अन्वय :

श्रीपुष्पदन्तमुखपंकजनिर्गतेन किल्विषहरेण हरप्रियेण स्तोत्रेण कंठस्थितेन समाहितेन पठितेन भूतपतिः महेशः सुप्रीणितः भवति ।

Click here to Reply or Forward
1.05 GB (7%) of 15 GB used
Manage
Terms – Privacy
Last account activity: 25 minutes ago
Details

Leave a Reply

Your email address will not be published. Required fields are marked *