शिवमहिम्नःस्तोत्रम्

मूल पाठ एवं अन्वय

Original Verse

महिम्नःपारन्ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्व: स्वमतिपरिणामावधि गृणन्
ममाप्येषस्तोत्रे हर ! निरपवादः परिकरः ।। १ ।।

अन्वय
हर ! यदि ते महिम्नः परं पारं अविदुषः स्तुतिः असदृशी, तद् ब्रह्मादिनाम् अपि गिरः त्वयि अवसन्नाः। अथ स्वमति परिणामावधिः गृणन् सर्वः अवाच्यः, (अतः) मम अपि स्तोत्रे एष परिकरः निरपवादः।

अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
रतद् व्यावृत्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ।। २।।

अन्वय
तव महिमा च वाङ्गमनसयोः पन्थानं अतीतः । यं श्रुतिः अपि अतद्-व्यावृत्त्या चकितं अभिधत्ते, स कस्य स्तोतव्यः ? कतविधगुणः ? कस्य विषयः ? (तथापि) अर्वाचीने पदे कस्य मनः कस्य वचः (च) न पतति ।

मधुस्फीता वाचः परमममृतं निर्मितवतस्तव
ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थे अस्मिन् पुरमथन बुद्धिर्व्यवसिता ।।३।।

अन्वय
हे ब्रह्मन् ! (हे) ब्रह्मन् ! परमं अमृतं मधुस्फीताः वाचः निर्मितवतः तव सुरगुरोः अपि वाक् किं विस्मयपदम् ? हे पुरमथन ! मम तु एतां वाणीं भवतः गुणकथनपुण्येन पुनामी इति अर्थे अस्मिन् बुद्धिः व्यवसिता ।

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ।। ४।।

अन्वय
हे वरद ! जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु गुणभिन्नासु तिसृषु तनुषु व्यस्तं यद् इह तव ऐश्वर्यं तद् विहन्तुं एके जडधियः अस्मिन् अभव्यानां रमणियां अरमणिम् व्याक्रोशीं विदधते ।

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनम्
किमाधारो धाता सृजति किमुपादन इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोsयं कांश्चिन्मुखरयति मोहाय जगतः।। ५।।

अन्वय
स धाता किमीहः किंकायः किमुपायः किमाधारः किमुपादनः च त्रिभुवनं सृजति ईटी अयं कुतर्कः अतर्क्यैश्वर्ये त्वयि अनवसरदुःस्थः खलु जगतः मोहाय कांश्चित् हतधियः मुखरयति ।

अजन्मानोलोकाः किमवयववन्तोsपि जगतामधिष्ठातारं
किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ।।६।।

अन्वय
अमरवर ! इमे लोकाः अवयववन्तः अपि किं अजन्मानः ? किं भवविधिः जगतां अधिष्ठातारं अनादृत्य भवति ? अनीशः वा कुर्यात् (तर्हि ) भुवनजनने कः परिकरः ? यत् मन्दाः (अतः ) त्वां प्रति संशेरते ।

sadhu-2
x1

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।। ७।।

अन्वय
त्रयी सांख्यं योगः पशुपतिमतं वैष्णवं इति प्रभिन्ने प्रस्थान इदं परं अदः पथ्यं इति रुचीनां वैचित्र्याद् ऋजुकुटिलनानापथजुषां नृणां पयसां अर्णवः इव त्वं एकः गम्यः असि ।

महोक्षः खट्वांगं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद् भ्रूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति।। ८।।

अन्वय
वरद ! महोक्षः खट्वाङ्गं परशुः अजिनं भस्म फणिनः कपालं च इति इयत् तव तन्त्रोपकरणम् सुराः तु तां ताम् ऋद्धिं भवद् भ्रूप्रणिहितां दधाति । हि विषयमृगतृष्णा स्वात्मारामं न भ्रामयति ।

ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेsप्येतस्मिन्पुरमथन तैर्विस्मित इव
स्तुवन्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ।।९।।

अन्वय
पुरमथन ! कश्चिद् इदं सर्वं ध्रुवं गदति अपरः सकलं अध्रुवं तु परः जगति व्यस्तविषये ध्रौव्याध्रौव्ये । एतस्मिन् समस्ते तैः विस्मित इव अपि त्वां स्तुवन् न जिह्रेमि । ननु मुखरता खलु धृष्टा ।

तवैश्वर्यं यत्नाद्युपरि विरञ्चरहरिरधः
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरीश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।।१०।।

अन्वय
गिरीश ! अनलस्कन्धवपुषः तव यद् ऐश्वर्यं परिच्छेत्तुं विरंचिः उपरि हरिः अधः यत्नाद् यातौ अनलं , ततः भक्तिश्रद्धाभरगुरुगृणद्भ्याम् तस्थे । तव अनुवृत्तिः किम् न फलति ?

अयत्नादापाद्य-त्रिभुवनमवैर-व्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् ।
शिरः पद्मश्रेणिरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।।११।।

अन्वय
त्रिपुरहर ! शिरःपद्मश्रेणिरचितचरणाम्भोरुबलेः स्थिरायाः त्वद्भक्तेः इदं विस्फूर्जितं यद् दशास्यः त्रिभुवनं अयत्नाद् अवैरव्यतिकरं आपाद्यरणकण्डूपरवशान् बाहून् अभृत ।

अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात्कैलासेsपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पातालेsप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ।।१२।।

अन्वय
त्वत्सेवासमधिगतसारं भुजवनं त्वदधिवसतौ कैलासे अपि बलात् विक्रमयतः अमुष्य त्वयि अलसचलितांगुष्ठशिरसि पाताले अपि प्रतिष्ठा अलभ्या आसीत् । उपचिताः खलः ध्रुवं मुह्यति ।

g2
x3

यदृद्धिं सुत्राम्णो वरद ! परमोच्चैरपि सतीमधश्चक्रे
बाणः परिजनविधेयस्त्रिभुवनम् ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोर्न
कस्याप्युन्नत्यै भवति शिरस्त्वय्यवनतिः ।।१३।।

अन्वय
हे वरद ! त्रिभुवनं परिजनविधेयः बाणः सुत्राम्णः परमोच्चैः सतीम् अपि ऋद्धिं यद् अधः चक्रे तत् त्वच्चरणयोः वरिवसितरि तस्मिन् न चित्रम् । त्वयि शिरसः अवनतिः कस्यै उन्नत्यै न भवति ?

अकाण्डब्रह्मांडक्षयचकितदेवासुरकृपा-
विधेयस्याssसीद्यस्त्रिनयन विषं संहृतवतः ।
स कल्माष कण्ठे तव न कुरुते न श्रियमहो
विकारोsपिश्लाघ्यो भुवनभयभंगव्यसनिनः ।।१४।।

अन्वय
त्रिनयन ! अकाण्डब्रह्मांडचकितदेवासुरकृपाविधेयस्य विषं संहृतवतः तव कण्ठे कल्माषः आसीद् । स किं श्रियं न कुरुते ? अहो ! भुवनभयभंगव्यसनिनः विकारः आपि श्लाघ्यः ।

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः ।।१५।।

अन्वय
ईश ! जयिनः यस्य विशिखाः सदेवासुरनरे जगति क्वचिदपि नित्यं असिद्धार्थाः न एव निवर्तन्ते, त्वां इतरसुरसाधारणं पश्यन् स एव स्मरः स्मर्तव्यात्मा अभूत । हि वशिषु परिभवः पथ्यः न (भवति) ।

मही पादाघाताद्व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ।।१६।।

अन्वय
ननु त्वं जगद्रक्षायै नटसि (तथापि) मही पादाघातात् सहसा संशयपदं व्रजति, विष्णोः पदं भ्राम्यद् भुजपरिघरुग्णग्रहगणं (व्रजति), अनिभृतजटाताडिततटा द्यौ मुहुः दौस्थ्यं याति । विभुता वामा एव ।

वियद् व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद् द्वीपाकारं जलधिवलयं तेनकृतमित्य-
नेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः।।१७।।

अन्वय
वियद् व्यापी तारागणगुणितफेनोद्गमरुचिः वारां यः प्रवाहः ते शिरसि पृषतलघुदृष्टः तेन जगद् जलधिवलयं द्वीपाकारं कृतं इति अनेन एव दिव्यं वपुः धृतमहिम (इति) उन्नेयम् ।

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथांगे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर-
विधिर्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ।।१८।।

अन्वय
क्षोणी रथः शतधृतिः यन्ता, अगेन्द्रो धनुः, चन्द्रार्कौ रथांगे अथः रथचरणपाणिः शरह इति त्रिपुरतृणं दिधक्षोः ते अयं आडम्बरविधिः कः ? खलु विधेयैः क्रीडन्त्यः प्रभुधियः परतन्त्राः न ।

x4
brahmaji

हरिस्ते साहस्रं कमलबलिमाधाय पदयोर्य-
देकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ।।१९।।

अन्वय
हे त्रिपुरहर ! हरिः ते पादयोः साहस्रं कमलबलिं आधाय तस्मिन् एकोने निजं नेत्रकमलं यद् उदहरत् असौ भक्त्युद्रेकः चक्रवपुषा परिणतिं गतः त्रयाणां जगतां रक्षायै जागर्ति ।

क्रतौ सुप्ते जागृत्तमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवम्
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ।।२०।।

अन्वय
क्रतुमतां क्रतौ सुप्ते फलयोगे त्वं जाग्रत् असि । प्रध्वस्तं कर्म पुरुषाराधनं ऋते कव फलति ? अतः त्वां क्रतुषु फलदानप्रतिभुवं सम्प्रेक्ष्य जनः श्रुतौ श्रद्धां बद्ध्वा कर्मसु दृढपरिकरः (भवति) ।

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ।।२१ ।।

अन्वय
हे शरणद ! क्रियादक्षः तनुभृत्ताम् अधीशः दक्षः क्रतुपतिः ऋषीणाम् आर्त्विज्यम् सुरगणाः सदस्याः क्रतुफलविधानव्यसनिनः त्वत्त क्रतुभ्रंशः (जातः) । ध्रुवं हि कर्तुः श्रद्धाविधुरं मखा: अभिचाराय ।

प्रजानाथं नाथ प्रसभमिकं स्वां दुहितरं
गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुम्
त्रसन्तं तेsद्यापि त्यजति न मृगव्याधरभसः ।। २२।।

अन्वय
हे नाथ ! स्वां दुहितरं रोहिद् भूतां ऋष्यस्य वपुषा गतं प्रसभं रिरमयिषुम् अभिकं प्रजानाथं ते अपि धनुष्पाणेः मृगव्याधरभसः सपत्राकृतं दिवं यातं त्रसन्तं अमुं अद्य अपि न त्यजति ।

स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरतदेहार्धघटना-
दवैति त्वामद्धा बत वरद मुग्धा युवतयः ।। २३।।

अन्वय
हे पुरमथन ! हे यमनिरत ! स्वलावण्याशंसाधृतधनुषं पुष्पायुधं पुरः तृणवत् अह्नाय प्लुष्टं दृष्ट्वा अपि देवी देहार्धघटनाद् यदि त्वां स्त्रैणं अवैति हे वरद ! अद्धा । बत युवतयः मुग्धाः ।

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराश्चिता-
भस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमंगल्यम् शीलं तव भवतु नामैवाखिलम्
तथापि स्मर्तृणां वरद परमं मंगलमसि ।।२४।।

अन्वय
हे स्मरहर ! श्मशानेषु आक्रीडा, पिशाचाः सहचराः, चिताभस्म आलेपः, अपि नृकरोटीपरिकरः स्रक् । एवं तव अखिलं शीलं अमंगल्यम् नाम भवतु तथापि हे वरद ! स्मर्तृणां परमं मंगलं असि ।

tri
13346720_1018476181540774_6866106749111252658_n

मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्संगितदृश: ।
यदालोक्याह्लादं हृद इव निमज्ज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ।।२५।।

अन्वय
यमिनः सविधं आत्तमरुतः मनः प्रत्यक्चित्ते अवधाय यत् किं अपि तत्त्वं आलोक्य प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः अमृतमये हृदे निमज्ज्य इव अंतः आह्लादं दधति तत् कील भवान् ।

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ।।२६।।

अन्वय
त्वं अर्कः, त्वं सोमः, त्वं पवनः, त्वं हुतवहः, त्वं आपः, त्वं व्योमः, त्वं धरणिः, च त्वं उ आत्मा असि इति एवं त्वयि परिच्छिन्नां गिरं परिणताः बिभ्रतु तु वयं इह तत् तत्त्वं न विद्मः यत् त्वं न भवसि ।

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमितिपदम् ।।२७।।

अन्वय
हे शरणद ! त्रयीं, तिस्रो वृत्तीः, त्रिभुवनं अथो त्रीन् सुरान् अपि अकाराद्यैः त्रिभिः वर्णैः अभिदधत्, (तथा च) तीर्णविकृति तुरीयं ते धाम अणुभिः ध्वनिभिः अवरुन्धानं ओम् इति पदं त्वां समस्तं व्यस्तं गृणाति ।

भवः शर्वो रुद्रः पशुपतिरयोग्रः सह महां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन्प्रत्येकं प्रविचरति देवः श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहितनमस्योsस्मि भवते ।।२८।।

अन्वय
हे देव ! भवः शर्वो रुद्रः पशुपतिः उग्रः सहमहान् तथा भीमेशानौ इति यत् अभिधानाष्टकं अमुष्मिन् प्रत्येकं श्रुतिः अपि प्रविचरति अथ अस्मै प्रियाय धाम्ने भवते प्रणिहितनमस्यः अस्मि ।

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ।।२९।।

अन्वय
हे प्रियदव ! नेदिष्ठाय दविष्ठाय च (ते) नमो नमः । हे स्मरहर ! क्षोदिष्ठाय महिष्ठाय च (ते) नमो नमः । हे त्रिनयन ! वर्षिष्ठाय यविष्ठाय च (ते) नमो नमः ।

बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबलतमसे तत्संहारे हराय नमो नमः ।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ।।३०।।

अन्वय
विश्वोत्पत्तौ बहुलरजसे भवाय नमो नमः । तत्संहारे प्रबलतमसे हराय नमो नमः । जनसुखकृते सत्वोद्रिक्तौ मृडाय नमो नमः । प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ।

bell
cow

कृशपरिणतिचेतः क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधा-
द्वरद चरणयोस्ते वाक्यपुष्पोपहारम् ।। ३१।।

अन्वय
हे वरद ! कृशपरिणति क्लेशवश्यं इदं चेतः च क्व गुणसीमोल्लंघिनी शश्वत् तव ऋद्धिः क्व इति चकितं माम् अमन्दीकृत्य भक्तिः ते चरणयोः वाक्यपुष्पोपहारम् आधात् ।

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरु-वर-शाखा लेखनी पत्रमुर्वीम् ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ।।३२।।

अन्वय
हे ईश ! यदि सिन्धुपात्रे असितगिरिसं कज्जलं सुरतरुवरशाखा लेखनी उर्वी (च) पत्रं स्यात् (तथा) शारदा गृहीत्वा सर्वकालं लिखति तद् अपि तव गुणानां पारं न याति ।

असुर-सुर-मुनीन्द्रिरचितस्येन्दुमौलेर्ग्रथित-
गुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ।।३३।।

अन्वय
असुरसुरमुनीन्द्रैः अर्चितस्य इन्दुमौलेः ग्रथितगुणमहिम्नः निर्गुणस्य ईश्वरस्य एतद् रुचिरं स्तोत्रं पुष्पदन्ताभिधानः सकलगणवरिष्ठः अलघुवृत्तैः चकार ।

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्त पुमान्यः ।
स भवति शिवलोके रुद्रतुल्यस्तथाsत्र
प्रचुरतरधनायुः पुत्रवान्कीर्तिमान्श्च ।।३४।।

अन्वय
शुद्धचित्तः यः पुमान् धूर्जटेःअनवद्यम् एतत् स्तोत्रं अहः अहः परमभक्त्या पठति स अत्र प्रचुरतरधनायुः पुत्रवान् कीर्तिवान् च भवति तथा शिवलोके रुद्रतुल्य:(भवति)।

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मंत्रो नास्ति तत्त्वं गुरोः परम् ।।३५।।
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ।।३६।।

अन्वय
महेशात् अपरः देवः न (अस्ति), महिम्नः अपरा स्तुतिः न (अस्ति), अघोरात् अपरः मन्त्रः न (अस्ति), गुरोः परं तत्त्वं न अस्ति ।

अन्वय
दीक्षा दानं तपः तीर्थं ज्ञानं यज्ञादिकाः क्रियाः महिम्नस्तवपाठस्य षोडशीं कलां न अर्हन्ति ।

कुसुमदशननामा सर्वगन्धर्वराजः
शिशुशशिधरवरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्यारोषात्=
स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ।।३७।।

अन्वय
शिशुशशिधरवरमौलेः देवदेवस्य दासः कुसुमदशननामा सर्वगन्धर्वराजः अस्य रोषात् खलु निजमहिम्नः भ्रष्टः स एव महिम्नः इदं दिव्यदिव्यं स्तवनं अकार्षीत्।

shlok 12
thirdeye

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्रांजलिर्नान्यचेताः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदंतप्रणीतम् ।। ३८।।

अन्वय
पुष्पदंतप्रणीतं अमोघं सुरवरमुनिपूज्यम् स्वर्गमोक्षैकहेतुं इदं स्तवनं यदि मनुष्यः प्रांजलिः नान्यचेताः पठति किन्नरैः स्तूयमानः शिवसमीपं व्रजति ।

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितं ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ।।३९ ।।
इत्येषा वाङ्गमयी पूजा श्रीमच्छंकरपादयोः ।
अर्पिता तेन देवेशः प्रीयतां में सदाशिवः ।।४०।।

अन्वय
आसमाप्तम् इदं गन्धर्वभाषितं अनौपम्यं पुण्यं शिवमीश्वरवर्णनम् स्तोत्रं मनोहारि इति मे एषा वाङ्गमयी पूजा श्रीमच्छंकरपादयोः अर्पिता तेन देवेशः सदाशिवः प्रीयतां ।

तव तत्त्वं न जानामि कीदृशोsसि महेश्वर ।
यादृशोsसि महादेव तादृशाय नमो नमः ।। ४१ ।।
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ।। ४२ ।।

अन्वय
महेश्वर तव तत्त्वं न जानामि कीदृशोsसि महादेव यादृशोsसि तादृशाय नमो नमः । यः नरः एककालं द्विकालं वा त्रिकालं पठेत् (सः ) सर्वपापविनिर्मुक्तः शिवलोके महीयते ।

श्रीपुष्पदन्त-मुखपंकज-निर्गतेन
स्तोत्रेण किल्विषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ।। ४३।।

अन्वय
श्रीपुष्पदन्तमुखपंकजनिर्गतेन किल्विषहरेण हरप्रियेण स्तोत्रेण कंठस्थितेन समाहितेन पठितेन भूतपतिः महेशः सुप्रीणितः भवति ।

इति श्रीशिवार्पणमस्तु ।

अनुक्रमणिका दो शब्द

Separator-fancy

6 comments

  1. वाह। बहुत सुन्दर। अतीव सुन्दर। मन प्रसन्न हो गया है।
    आप के द्वारा लिखित सभी श्लोकों का अन्वय तथा चित्र बहुत ही अच्छे लगे।
    आप का बहुत बहुत धन्यवाद।

  2. Surendra Verma says:

    जय श्रीकृष्ण !
    एक अन्तराल पश्चात् पुन: धृष्टता कर रहा हूँ, क्षमा प्रार्थना सहित:
    शिवमहिम्न: स्तोत्र मूल पाठ, श्लोक २५: ‘त्संगीत’ विक्षेप करता है.
    श्लोक २८ अन्वय में यत् के स्थान पर ‘याद’ हें, हटाने की अनुकम्पा करें.
    श्लोक १ में ‘गृणंन्’ के ऊपर बिंदु अनुकम्पा करें.
    अतीव आनन्ददायक है कलेवर दर्शन, वाचन; उसका पुनराभार.

    • Kiran Bhatia says:

      आदरणीय सुरेन्द्र वर्माजी, जय श्रीकृष्ण ! एक दीर्घ अन्तराल के बाद आपने कृपापूर्वक सक्रिय हो कर पाठ को यथासंभव शुद्ध रखने के हमारे प्रयास में सहयोग दिया, स्वागत है । त्रुटियों को सही कर दिया गया है । इति शुभम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *